rigveda/1/187/10

क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः। वाता॑पे॒ पीव॒ इद्भ॑व ॥

क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः । वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - ओषधयः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः। वाता॑पे॒ पीव॒ इद्भ॑व ॥

स्वर सहित पद पाठ

क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः । वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥


स्वर रहित मन्त्र

करम्भ ओषधे भव पीवो वृक्क उदारथिः। वातापे पीव इद्भव ॥


स्वर रहित पद पाठ

करम्भः । ओषधे । भव । पीवः । वृक्कः । उदारथिः । वातापे । पीवः । इत् । भव ॥