rigveda/1/186/5

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒: शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑:। येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ । येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - विश्वेदेवा:

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒: शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑:। येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥

स्वर सहित पद पाठ

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ । येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥


स्वर रहित मन्त्र

उत नोऽहिर्बुध्न्यो३ मयस्क: शिशुं न पिप्युषीव वेति सिन्धु:। येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥


स्वर रहित पद पाठ

उत । नः । अहिः । बुध्न्यः । मयः । करिति कः । शिशुम् । न । पिप्युषीऽइव । वेति । सिन्धुः । येन । नपातम् । अपाम् । जुनाम । मनःऽजुवः । वृषणः । यम् । वहन्ति ॥