rigveda/1/186/11

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः। नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ । नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - विश्वेदेवा:

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः। नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

स्वर सहित पद पाठ

इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ । नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥


स्वर रहित मन्त्र

इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः। नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥


स्वर रहित पद पाठ

इयम् । सा । वः । अस्मे इति । दीधितिः । यजत्राः । अपिऽप्राणी । च । सदनी । च । भूयाः । नि । या । देवेषु । यतते । वसुऽयुः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥