rigveda/1/183/4

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम्। अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥

मा । वा॒म् । वृकः॑ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि॑ । व॒र्क्त॒म् । उ॒त । मा । अति॑ । ध॒क्त॒म् । अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । इ॒यम् । गीः । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अश्विनौ

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम्। अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥

स्वर सहित पद पाठ

मा । वा॒म् । वृकः॑ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि॑ । व॒र्क्त॒म् । उ॒त । मा । अति॑ । ध॒क्त॒म् । अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । इ॒यम् । गीः । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥


स्वर रहित मन्त्र

मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम्। अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥


स्वर रहित पद पाठ

मा । वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत । मा । अति । धक्तम् । अयम् । वाम् । भागः । निऽहितः । इयम् । गीः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥