rigveda/1/182/3

किमत्र॑ दस्रा कृणुथ॒: किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑। अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥

किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ । अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अश्विनौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

किमत्र॑ दस्रा कृणुथ॒: किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑। अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥

स्वर सहित पद पाठ

किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ । अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥


स्वर रहित मन्त्र

किमत्र दस्रा कृणुथ: किमासाथे जनो यः कश्चिदहविर्महीयते। अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥


स्वर रहित पद पाठ

किम् । अत्र । दस्रा । कृणुथः । किम् । आसाथे । जनः । यः । कः । चित् । अहविः । महीयते । अति । क्रमिष्टम् । जुरतम् । पणेः । असुम् । ज्योतिः । विप्राय । कृणुतम् । वचस्यवे ॥