rigveda/1/182/2

इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा। पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥

इन्द्र॑ऽतमा । हि । धिष्ण्या॑ । म॒रुत्ऽत॑मा । द॒स्रा । दंसि॑ष्ठा । र॒थ्या॑ । र॒थिऽत॑मा । पू॒र्णम् । रथ॑म् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आचि॑तम् । तेन॑ । दा॒श्वांस॑म् । उप॑ । या॒थः॒ । अ॒श्वि॒ना॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अश्विनौ

छन्दः - स्वराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा। पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥

स्वर सहित पद पाठ

इन्द्र॑ऽतमा । हि । धिष्ण्या॑ । म॒रुत्ऽत॑मा । द॒स्रा । दंसि॑ष्ठा । र॒थ्या॑ । र॒थिऽत॑मा । पू॒र्णम् । रथ॑म् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आचि॑तम् । तेन॑ । दा॒श्वांस॑म् । उप॑ । या॒थः॒ । अ॒श्वि॒ना॒ ॥


स्वर रहित मन्त्र

इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा। पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥


स्वर रहित पद पाठ

इन्द्रऽतमा । हि । धिष्ण्या । मरुत्ऽतमा । दस्रा । दंसिष्ठा । रथ्या । रथिऽतमा । पूर्णम् । रथम् । वहेथे इति । मध्वः । आचितम् । तेन । दाश्वांसम् । उप । याथः । अश्विना ॥