rigveda/1/181/6

प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन्। एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगु॑: ॥

प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् । एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अश्विनौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन्। एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगु॑: ॥

स्वर सहित पद पाठ

प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् । एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥


स्वर रहित मन्त्र

प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन्। एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगु: ॥


स्वर रहित पद पाठ

प्र । वाम् । शरत्ऽवान् । वृषभः । न । निष्षाट् । पूर्वीः । इषः । चरति । मध्वः । इष्णन् । एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः ॥