rigveda/1/181/2
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥
आ । वाम् । अश्वासः । शुचयः । पयःऽपाः । वातऽरंहसः । दिव्यासः । अत्याः । मनःऽजुवः । वृषणः । वीतऽपृष्ठाः । आ । इह । स्वऽराजः । अश्विना । वहन्तु ॥