rigveda/1/18/7

यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न। स धी॒नां योग॑मिन्वति॥

यस्मा॑त् । ऋ॒ते । न । सिध्य॑ति । य॒ज्ञः । वि॒पः॒ऽचितः॑ । च॒न । सः । धी॒नाम् । योग॑म् । इ॒न्व॒ति॒ ॥

ऋषिः - मेधातिथिः काण्वः

देवता - सदसस्पतिः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न। स धी॒नां योग॑मिन्वति॥

स्वर सहित पद पाठ

यस्मा॑त् । ऋ॒ते । न । सिध्य॑ति । य॒ज्ञः । वि॒पः॒ऽचितः॑ । च॒न । सः । धी॒नाम् । योग॑म् । इ॒न्व॒ति॒ ॥


स्वर रहित मन्त्र

यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन। स धीनां योगमिन्वति॥


स्वर रहित पद पाठ

यस्मात् । ऋते । न । सिध्यति । यज्ञः । विपःऽचितः । चन । सः । धीनाम् । योगम् । इन्वति ॥