rigveda/1/176/4

असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मय॑:। अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥

असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनस॑म् । यः । न । ते॒ । मयः॑ । अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - इन्द्र:

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मय॑:। अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥

स्वर सहित पद पाठ

असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनस॑म् । यः । न । ते॒ । मयः॑ । अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥


स्वर रहित मन्त्र

असुन्वन्तं समं जहि दूणाशं यो न ते मय:। अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥


स्वर रहित पद पाठ

असुन्वन्तम् । समम् । जहि । दुःऽनसम् । यः । न । ते । मयः । अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते ॥