rigveda/1/174/5

वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑। प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥

वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अस्वा॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - इन्द्र:

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑। प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥

स्वर सहित पद पाठ

वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अस्वा॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥


स्वर रहित मन्त्र

वह कुत्समिन्द्र यस्मिञ्चाकन्त्स्यूमन्यू ऋज्रा वातस्याश्वा। प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥


स्वर रहित पद पाठ

वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अस्वा । प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रऽबाहुः ॥