rigveda/1/171/2

ए॒ष व॒: स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः। उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑: ॥

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ । उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - मरुतः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ए॒ष व॒: स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः। उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑: ॥

स्वर सहित पद पाठ

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ । उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥


स्वर रहित मन्त्र

एष व: स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः। उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधास: ॥


स्वर रहित पद पाठ

एषः । वः । स्तोमः । मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः । उप । ईम् । आ । यात । मनसा । जुषाणाः । यूयम् । हि । स्थ । नमसः । इत् । वृधासः ॥