rigveda/1/167/2

आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः। अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥

आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः । अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - इन्द्रो मरुच्च

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः। अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥

स्वर सहित पद पाठ

आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः । अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥


स्वर रहित मन्त्र

आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः। अध यदेषां नियुत: परमाः समुद्रस्य चिद्धनयन्त पारे ॥


स्वर रहित पद पाठ

आ । नः । अवःऽभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्ऽदिवैः । सुऽमायाः । अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥