rigveda/1/166/7

प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः। अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः । अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥

ऋषिः - मैत्रावरुणोऽगस्त्यः

देवता - मरुतः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः। अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

स्वर सहित पद पाठ

प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः । अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥


स्वर रहित मन्त्र

प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः। अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥


स्वर रहित पद पाठ

प्र । स्कम्भऽदेष्णाः । अनवभ्रऽराधसः । अलातृणासः । विदथेषु । सुऽस्तुताः । अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पौंस्या ॥