rigveda/1/164/42

तस्या॑: समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः। तत॑: क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥

तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः । ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - वाक्; , आपः

छन्दः - भुरिग्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

तस्या॑: समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः। तत॑: क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥

स्वर सहित पद पाठ

तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः । ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥


स्वर रहित मन्त्र

तस्या: समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः। तत: क्षरत्यक्षरं तद्विश्वमुप जीवति ॥


स्वर रहित पद पाठ

तस्याः । समुद्राः । अधि । वि । क्षरन्ति । तेन । जीवन्ति । प्रऽदिशः । चतस्रः । ततः । क्षरति । अक्षरम् । तत् । विश्वम् । उप । जीवति ॥