rigveda/1/163/8
ऋषिः - दीर्घतमा औचथ्यः
देवता - अश्वोऽग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् । अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥
अनु । त्वा । रथः । अनु । मर्यः । अर्वन् । अनु । गावः । अनु । भगः । कनीनाम् । अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते ॥