rigveda/1/163/3
ऋषिः - दीर्घतमा औचथ्यः
देवता - अश्वोऽग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुहे॑न । व्र॒तेन॑ । असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥
असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुहेन । व्रतेन । असि । सोमेन । समया । विऽपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥