rigveda/1/162/8

यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ । यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - मित्रादयो लिङ्गोक्ताः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

स्वर सहित पद पाठ

यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ । यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥


स्वर रहित मन्त्र

यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य। यद्वा घास्य प्रभृतमास्ये३ तृणं सर्वा ता ते अपि देवेष्वस्तु ॥


स्वर रहित पद पाठ

यत् । वाजिनः । दाम । सम्ऽदानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य । यत् । वा । घ । अस्य । प्रऽभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥