rigveda/1/162/14

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः । यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - मित्रादयो लिङ्गोक्ताः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

स्वर सहित पद पाठ

नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः । यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥


स्वर रहित मन्त्र

निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः। यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥


स्वर रहित पद पाठ

निऽक्रमणम् । निऽसदनम् । विऽवर्तनम् । यत् । च । पड्बीशम् । अर्वतः । यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥