rigveda/1/161/5

हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः। अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥

हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः । अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॑नान् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - ऋभवः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः। अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥

स्वर सहित पद पाठ

हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः । अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॑नान् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥


स्वर रहित मन्त्र

हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः। अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या३ नामभिः स्परत् ॥


स्वर रहित पद पाठ

हनाम । एनान् । इति । त्वष्टा । यत् । अब्रवीत् । चमसम् । ये । देवऽपानम् । अनिन्दिषुः । अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नामऽभिः । स्परत् ॥