rigveda/1/16/2
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - गायत्री
स्वरः - षड्जः
इ॒माः । धा॒नाः । घृ॒त॒ऽस्नुवः॑ । हरी॒ इति॑ । इ॒ह । उप॑ । व॒क्ष॒तः॒ । इन्द्र॑म् । सु॒खऽत॑मे । रथे॑ ॥
इमाः । धानाः । घृतऽस्नुवः । हरी इति । इह । उप । वक्षतः । इन्द्रम् । सुखऽतमे । रथे ॥