rigveda/1/158/3

यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः। उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑: ॥

यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः । उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - अश्विनौ

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः। उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑: ॥

स्वर सहित पद पाठ

यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः । उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥


स्वर रहित मन्त्र

युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः। उप वामव: शरणं गमेयं शूरो नाज्म पतयद्भिरेवै: ॥


स्वर रहित पद पाठ

युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः । उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्ऽभिः । एवैः ॥