rigveda/1/153/3

पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे। हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥

पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे । हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - मित्रावरुणौ

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे। हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥

स्वर सहित पद पाठ

पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे । हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥


स्वर रहित मन्त्र

पीपाय धेनुरदितिर्ऋताय जनाय मित्रावरुणा हविर्दे। हिनोति यद्वां विदथे सपर्यन्त्स रातहव्यो मानुषो न होता ॥


स्वर रहित पद पाठ

पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविःऽदे । हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातऽहव्यः । मानुषः । न । होता ॥