rigveda/1/153/2

प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः। अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥

प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः । अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - मित्रावरुणौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः। अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥

स्वर सहित पद पाठ

प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः । अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥


स्वर रहित मन्त्र

प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः। अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥


स्वर रहित पद पाठ

प्रऽस्तुतिः । वाम् । धाम । न । प्रऽयुक्तिः । अयामि । मित्रावरुणा । सुऽवृक्तिः । अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥