rigveda/1/152/4
ऋषिः - दीर्घतमा औचथ्यः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् । अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥
प्रऽयन्तम् । इत् । परि । जारम् । कनीनाम् । पश्यामसि । न । उपऽनिपद्यमानम् । अनवऽपृग्णा । विऽतता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम ॥