rigveda/1/151/5

म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नव॑:। स्वर॑न्ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥

म॒ही । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ । स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - मित्रावरुणौ

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नव॑:। स्वर॑न्ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥

स्वर सहित पद पाठ

म॒ही । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ । स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥


स्वर रहित मन्त्र

मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनव:। स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥


स्वर रहित पद पाठ

मही । अत्र । महिना । वारम् । ऋण्वथः । अरेणवः । तुजः । आ । सद्मन् । धेनवः । स्वरन्ति । ताः । उपरऽताति । सूर्यम् । आ । निऽम्रुचः । उषसः । तक्ववीःऽइव ॥