rigveda/1/147/5

उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑। अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥

उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒ऽवि॒द्वान् । मर्तः॑ । मर्त॑म् । म॒र्चय॑ति । द्व॒येन॑ । अतः॑ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त॑म् । अग्ने॑ । माकिः॑ । नः॒ । दुः॒ऽइ॒ताय॑ । धा॒यीः॒ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑। अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥

स्वर सहित पद पाठ

उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒ऽवि॒द्वान् । मर्तः॑ । मर्त॑म् । म॒र्चय॑ति । द्व॒येन॑ । अतः॑ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त॑म् । अग्ने॑ । माकिः॑ । नः॒ । दुः॒ऽइ॒ताय॑ । धा॒यीः॒ ॥


स्वर रहित मन्त्र

उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन। अत: पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥


स्वर रहित पद पाठ

उत । वा । यः । सहस्य । प्रऽविद्वान् । मर्तः । मर्तम् । मर्चयति । द्वयेन । अतः । पाहि । स्तवमान । स्तुवन्तम् । अग्ने । माकिः । नः । दुःऽइताय । धायीः ॥