rigveda/1/143/5

न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑:। अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥

न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ । अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - अग्निः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑:। अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥

स्वर सहित पद पाठ

न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ । अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥


स्वर रहित मन्त्र

न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनि:। अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्त्स वना न्यृञ्जते ॥


स्वर रहित पद पाठ

न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः । अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥