rigveda/1/143/3
ऋषिः - दीर्घतमा औचथ्यः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ । भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥
अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुऽसन्दृशः । सुऽप्रतीकस्य । सुऽद्युतः । भाऽत्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥