rigveda/1/141/7

वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः। तस्य॒ पत्म॑न्द॒क्षुष॑: कृ॒ष्णजं॑हस॒: शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥

वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः । तस्य॑ । पत्म॑न् । द॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥

ऋषिः - दीर्घतमा औचथ्यः

देवता - अग्निः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः। तस्य॒ पत्म॑न्द॒क्षुष॑: कृ॒ष्णजं॑हस॒: शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥

स्वर सहित पद पाठ

वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः । तस्य॑ । पत्म॑न् । द॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥


स्वर रहित मन्त्र

वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः। तस्य पत्मन्दक्षुष: कृष्णजंहस: शुचिजन्मनो रज आ व्यध्वनः ॥


स्वर रहित पद पाठ

वि । यत् । अस्थात् । यजतः । वातऽचोदितः । ह्वारः । न । वक्वा । जरणाः । अनाकृतः । तस्य । पत्मन् । दक्षुषः । कृष्णऽजंहसः । शुचिऽजन्मनः । रजः । आ । विऽअध्वनः ॥