rigveda/1/141/10
ऋषिः - दीर्घतमा औचथ्यः
देवता - अग्निः
छन्दः - निचृज्जगती
स्वरः - निषादः
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वता॑तिम् । इ॒न्व॒सि॒ । त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥
त्वम् । अग्ने । शशमानाय । सुन्वते । रत्नम् । यविष्ठ । देवतातिम् । इन्वसि । त्वम् । त्वा । नु । नव्यम् । सहसः । युवन् । वयम् । भगम् । न । कारे । महिऽरत्न । धीमहि ॥