ऋषिः - दीर्घतमा औचथ्यः

देवता - अग्निः

छन्दः - जगती

स्वरः - निषादः

PreviousNext
स्वर सहित मन्त्र

तम॒ग्रुव॑ः के॒शिनी॒ः सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒ः प्रायवे॒ पुन॑ः। तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥

स्वर सहित पद पाठ

तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ । तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥


स्वर रहित मन्त्र

तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः। तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥


स्वर रहित पद पाठ

तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे । ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र । आयवे । पुनरिति । तासाम् । जराम् । प्रऽमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन् । जीवम् । अस्तृतम् ॥