ऋषिः - दीर्घतमा औचथ्यः

देवता - अग्निः

छन्दः - निचृज्जगती

स्वरः - निषादः

PreviousNext
स्वर सहित मन्त्र

मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुव॑ः कृ॒ष्णसी॑तास ऊ॒ जुव॑ः। अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शव॑ः ॥

स्वर सहित पद पाठ

मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊँ॒ इति॑ । जुवः॑ । अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥


स्वर रहित मन्त्र

मुमुक्ष्वो३ मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः। असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥


स्वर रहित पद पाठ

मुमुक्ष्वः । मनवे । मानवस्यते । रघुऽद्रुवः । कृष्णऽसीतासः । ऊँ इति । जुवः । असमनाः । अजिरासः । रघुऽस्यदः । वातऽजूताः । उप । युज्यन्ते । आशवः ॥