rigveda/1/14/6

घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः। आ दे॒वान्त्सोम॑पीतये॥

घृ॒तऽपृ॑ष्ठाः । मनः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः । आ । दे॒वान् । सोम॑ऽपीतये ॥

ऋषिः - मेधातिथिः काण्वः

देवता - विश्वेदेवा:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः। आ दे॒वान्त्सोम॑पीतये॥

स्वर सहित पद पाठ

घृ॒तऽपृ॑ष्ठाः । मनः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः । आ । दे॒वान् । सोम॑ऽपीतये ॥


स्वर रहित मन्त्र

घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः। आ देवान्त्सोमपीतये॥


स्वर रहित पद पाठ

घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः । आ । देवान् । सोमऽपीतये ॥