rigveda/1/14/10

विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥

विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ । पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥

ऋषिः - मेधातिथिः काण्वः

देवता - विश्वेदेवा:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥

स्वर सहित पद पाठ

विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ । पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥


स्वर रहित मन्त्र

विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिः॥


स्वर रहित पद पाठ

विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना । पिब । मित्रस्य । धामऽभिः ॥