rigveda/1/139/7

ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः। यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन। वि तां दु॑ह्रे अर्य॒मा क॒र्तरि॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥

ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः । यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन । वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - अग्निः

छन्दः - अष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः। यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन। वि तां दु॑ह्रे अर्य॒मा क॒र्तरि॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥

स्वर सहित पद पाठ

ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः । यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन । वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥


स्वर रहित मन्त्र

ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः। यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन। वि तां दुह्रे अर्यमा कर्तरि सचाँ एष तां वेद मे सचा ॥


स्वर रहित पद पाठ

ओ इति । सु । नः । अग्ने । शृणुहि । त्वम् । ईळितः । देवेभ्यः । ब्रवसि । यज्ञियेभ्यः । राजऽभ्यः । यज्ञियेभ्यः । यत् । ह । त्याम् । अङ्गिरःऽभ्यः । धेनुम् । देवाः । अदत्तन । वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मे । सचा ॥