rigveda/1/139/3

यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाऽऽश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑:। यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा। प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥

यु॒वाम् । सोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ । यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ । प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - अश्विनौ

छन्दः - विराडत्यष्टिः

स्वरः - गान्धारः

स्वर सहित मन्त्र

यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाऽऽश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑:। यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा। प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥

स्वर सहित पद पाठ

यु॒वाम् । सोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ । यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ । प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥


स्वर रहित मन्त्र

युवां स्तोमेभिर्देवयन्तो अश्विनाऽऽश्रावयन्त इव श्लोकमायवो युवां हव्याभ्या३यव:। युवोर्विश्वा अधि श्रिय: पृक्षश्च विश्ववेदसा। प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥


स्वर रहित पद पाठ

युवाम् । सोमेभिः । देवऽयन्तः । अश्विना । आश्रावयन्तःऽइव । श्लोकम् । आयवः । युवाम् । हव्या । अभि । आयवः । युवोः । विश्वाः । अधि । श्रियः । पृक्षः । च । विश्वऽवेदसा । प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये ॥