rigveda/1/137/2

इ॒म आ या॑त॒मिन्द॑व॒: सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः। उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑:। सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥

इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः । उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । सु॒तः । मि॒त्राय । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - मित्रावरुणौ

छन्दः - विराडतिशक्वरी

स्वरः - पञ्चमः

स्वर सहित मन्त्र

इ॒म आ या॑त॒मिन्द॑व॒: सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः। उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑:। सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥

स्वर सहित पद पाठ

इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः । उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । सु॒तः । मि॒त्राय । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥


स्वर रहित मन्त्र

इम आ यातमिन्दव: सोमासो दध्याशिरः सुतासो दध्याशिरः। उत वामुषसो बुधि साकं सूर्यस्य रश्मिभि:। सुतो मित्राय वरुणाय पीतये चारुर्ऋताय पीतये ॥


स्वर रहित पद पाठ

इमे । आ । यातम् । इन्दवः । सोमासः । दधिऽआशिरः । सुतासः । दधिऽआशिरः । उत । वाम् । उषसः । बुधि । साकम् । सूर्यस्य । रश्मिऽभिः । सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥