rigveda/1/136/3

ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे। ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑। मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥

ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत् ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे । ज्योति॑श्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॑ । मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - मित्रावरुणौ

छन्दः - विराडत्यष्टिः

स्वरः - गान्धारः

स्वर सहित मन्त्र

ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे। ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑। मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥

स्वर सहित पद पाठ

ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत् ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे । ज्योति॑श्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॑ । मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥


स्वर रहित मन्त्र

ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे। ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती। मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥


स्वर रहित पद पाठ

ज्योतिष्मतीम् । अदितिम् । धारयत् ऽक्षितिम् । स्वःऽवतीम् । आ । सचेते इति । दिवेऽदिवे । जागृऽवांसा । दिवेऽदिवे । ज्योतिश्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती । मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥