rigveda/1/135/7
ऋषिः - परुच्छेपो दैवोदासिः
देवता - वायु:
छन्दः - अष्टिः
स्वरः - मध्यमः
अति॑ । वा॒यो॒ इति॑ । स॒स॒तः । या॒हि॒ । शश्व॑तः । यत्र॑ । ग्रावा॑ । वद॑ति । तत्र॑ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् । वि । सू॒नृता॑ । ददृ॑शे । रीय॑ते । घृ॒तम् । आ । पू॒र्णया॑ । नि॒ऽयुता॑ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः॑ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥
अति । वायो इति । ससतः । याहि । शश्वतः । यत्र । ग्रावा । वदति । तत्र । गच्छतम् । गृहम् । इन्द्रः । च । गच्छतम् । वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । निऽयुता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम् ॥