rigveda/1/134/6

त्वं नो॑ वायवेषा॒मपू॑र्व्य॒: सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि। उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम्। विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥

त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ । उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् । विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - वायु:

छन्दः - विराडष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

त्वं नो॑ वायवेषा॒मपू॑र्व्य॒: सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि। उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम्। विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥

स्वर सहित पद पाठ

त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ । उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् । विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥


स्वर रहित मन्त्र

त्वं नो वायवेषामपूर्व्य: सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि। उतो विहुत्मतीनां विशां ववर्जुषीणाम्। विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥


स्वर रहित पद पाठ

त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि । उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् । विश्वाः । इत् । ते । धेनवः । दुह्रे । आऽशिरम् । घृतम् । दुह्रते । आऽशिरम् ॥