rigveda/1/134/4

तुभ्य॑मु॒षास॒: शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑। तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते। अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥

तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒वति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दम्ऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ । तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ । अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - वायु:

छन्दः - विराडत्यष्टिः

स्वरः - गान्धारः

स्वर सहित मन्त्र

तुभ्य॑मु॒षास॒: शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑। तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते। अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥

स्वर सहित पद पाठ

तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒वति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दम्ऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ । तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ । अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥


स्वर रहित मन्त्र

तुभ्यमुषास: शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु। तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते। अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥


स्वर रहित पद पाठ

तुभ्यम् । उषसः । शुचयः । परावति । भद्रा । वस्त्रा । तन्वते । दम्ऽसु । रश्मिषु । चित्रा । नव्येषु । रश्मिषु । तुभ्यम् । धेनुः । सबःऽदुघा । विश्वा । वसूनि । दोहते । अजनयः । मरुतः । वक्षणाभ्यः । दिवः । आ । वक्षणाभ्यः ॥