rigveda/1/132/4
ऋषिः - परुच्छेपो दैवोदासिः
देवता - इन्द्र:
छन्दः - निचृदष्टिः
स्वरः - मध्यमः
नु । इ॒त्था । ते॒ । पू॒र्वथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् । एभ्यः॑ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ । सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥
नु । इत्था । ते । पूर्वथा । च । प्रऽवाच्यम् । यत् । अङ्गिरःऽभ्यः । अवृणोः । अप । व्रजम् । इन्द्र । शिक्षन् । अप । व्रजम् । एभ्यः । समान्या । दिशा । अस्मभ्यम् । जेषि । योत्सि । च । सुन्वत्ऽभ्यः । रन्धय । कम् । चित् । अव्रतम् । हृणायन्तम् । चित् । अव्रतम् ॥