rigveda/1/131/4

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः। शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते। म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥

वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - विराडत्यष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः। शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते। म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥

स्वर सहित पद पाठ

वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥


स्वर रहित मन्त्र

विदुष्टे अस्य वीर्यस्य पूरव: पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः। शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते। महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥


स्वर रहित पद पाठ

विदुः । ते । अस्य । वीर्यस्य । पूरवः । पुरः । यत् । इन्द्र । शारदीः । अवऽअतिरः । ससहानः । अवऽअतिरः । शासः । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवसः । पते । महीम् । अमुष्णाः । पृथिवीम् । इमाः । अपः । मन्दसानः । इमाः । अपः ॥