rigveda/1/131/2

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥

विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्वरिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् । तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ । इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - निचृदत्यष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥

स्वर सहित पद पाठ

विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्वरिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् । तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ । इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥


स्वर रहित मन्त्र

विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यव: पृथक्स्व: सनिष्यव: पृथक्। तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि। इन्द्रं न यज्ञैश्चितयन्त आयव: स्तोमेभिरिन्द्रमायव: ॥


स्वर रहित पद पाठ

विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यवः । पृथक् । स्वरिति स्वः । सनिष्यवः । पृथक् । तम् । त्वा । नावम् । न । पर्षणिम् । शूषस्य । धुरि । धीमहि । इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥