rigveda/1/130/3

अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि। व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः। अपा॑वृणो॒दिष॒ इन्द्र॒: परी॑वृता॒ द्वार॒ इष॒: परी॑वृताः ॥

अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒धि॑म् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि । व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः । अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - स्वराडष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि। व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः। अपा॑वृणो॒दिष॒ इन्द्र॒: परी॑वृता॒ द्वार॒ इष॒: परी॑वृताः ॥

स्वर सहित पद पाठ

अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒धि॑म् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि । व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः । अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥


स्वर रहित मन्त्र

अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि। व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः। अपावृणोदिष इन्द्र: परीवृता द्वार इष: परीवृताः ॥


स्वर रहित पद पाठ

अविन्दत् । दिवः । निऽहितम् । गुहा । निधिम् । वेः । न । गर्भम् । परिऽवीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि । व्रजम् । वज्री । गवाम्ऽइव । सिसासन् । अङ्गिरःऽतमः । अप । अवृणोत् । इषः । इन्द्रः । परिऽवृताः । द्वारः । इषः । परिऽवृताः ॥