rigveda/1/129/5

नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभि॑:। नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से। विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥

नि । सु । न॒म॒ । अति॑ऽमतिम् । कय॑स्य । चि॒त् । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । न । ऊ॒तिऽभिः॑ । उ॒ग्राभिः॑ । उ॒ग्र॒ । ऊ॒तिऽभिः॑ । नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से । विश्वा॑नि । पू॑रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - भुरिगतिशक्वरी

स्वरः - पञ्चमः

स्वर सहित मन्त्र

नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभि॑:। नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से। विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥

स्वर सहित पद पाठ

नि । सु । न॒म॒ । अति॑ऽमतिम् । कय॑स्य । चि॒त् । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । न । ऊ॒तिऽभिः॑ । उ॒ग्राभिः॑ । उ॒ग्र॒ । ऊ॒तिऽभिः॑ । नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से । विश्वा॑नि । पू॑रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥


स्वर रहित मन्त्र

नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभि:। नेषि णो यथा पुरानेनाः शूर मन्यसे। विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥


स्वर रहित पद पाठ

नि । सु । नम । अतिऽमतिम् । कयस्य । चित् । तेजिष्ठाभिः । अरणिऽभिः । न । ऊतिऽभिः । उग्राभिः । उग्र । ऊतिऽभिः । नेषि । नः । यथा । पुरा । अनेनाः । शूर । मन्यसे । विश्वानि । पूरोः । अप । पर्षि । वह्निः । आसा । वह्निः । नः । अच्छ ॥