rigveda/1/129/4
ऋषिः - परुच्छेपो दैवोदासिः
देवता - इन्द्र:
छन्दः - अष्टिः
स्वरः - मध्यमः
अ॒स्माक॑म् । वः॒ । इन्द्र॑म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ । सखा॑य । वि॒श्वऽआ॑युम् । प्र॒ऽसह॑म् । युज॑म् । वाजे॑षु । प्र॒ऽसह॑म् । युज॑म् । अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् । न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥
अस्माकम् । वः । इन्द्रम् । उश्मसि । इष्टये । सखाय । विश्वऽआयुम् । प्रऽसहम् । युजम् । वाजेषु । प्रऽसहम् । युजम् । अस्माकम् । ब्रह्म । ऊतये । अव । पृत्सुषु । कासु । चित् । नहि । त्वा । शत्रुः । स्तरते । स्तृणोषि । यम् । विश्वम् । शत्रुम् । स्तृणोषि । यम् ॥