rigveda/1/129/11

पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम्। ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः। अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥

पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॒म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् । ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माव॑तः । अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - भुरिगष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम्। ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः। अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥

स्वर सहित पद पाठ

पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॒म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् । ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माव॑तः । अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥


स्वर रहित मन्त्र

पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम्। हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः। अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥


स्वर रहित पद पाठ

पाहि । नः । इन्द्र । सुऽस्तुत । स्रिधः । अवऽयाता । सदम् । इत् । दुःऽमतीनाम् । देवः । सन् । दुःऽमतीनाम् । हन्ता । पापस्य । रक्षसः । त्राता । विप्रस्य । मावतः । अध । हि । त्वा । जनिता । जीजनत् । वसो इति । रक्षःऽहनम् । त्वा । जीजनत् । वसो इति ॥