rigveda/1/129/10

त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से। ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य। अ॒न्यम॒स्मद्रि॑रिषे॒: कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥

त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरू॑षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव॑से । म॒हे । मि॒त्रम् । न । अव॑से । ओजि॑ष्ठ । त्रातः॑ । अवि॑त्त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ । अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥

ऋषिः - परुच्छेपो दैवोदासिः

देवता - इन्द्र:

छन्दः - निचृदष्टिः

स्वरः - मध्यमः

स्वर सहित मन्त्र

त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से। ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य। अ॒न्यम॒स्मद्रि॑रिषे॒: कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥

स्वर सहित पद पाठ

त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरू॑षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव॑से । म॒हे । मि॒त्रम् । न । अव॑से । ओजि॑ष्ठ । त्रातः॑ । अवि॑त्त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ । अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥


स्वर रहित मन्त्र

त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे। ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य। अन्यमस्मद्रिरिषे: कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥


स्वर रहित पद पाठ

त्वम् । नः । इन्द्र । राया । तरूषसा । उग्रम् । चित् । त्वा । महिमा । सक्षत् । अवसे । महे । मित्रम् । न । अवसे । ओजिष्ठ । त्रातः । अवित्तरिति । रथम् । कम् । चित् । अमर्त्य । अन्यम् । अस्मत् । रिरिषेः । कम् । चित् । अद्रिऽवः । रिरिक्षन्तम् । चित् । अद्रिऽवः ॥